श्री प्रदोषस्तोत्रम् / Shri Pradosh Stotram

प्रदोष स्तोत्रम् Pradosh Stotram Lyrics

श्री गणेशाय नमः ।


जय देव जगन्नाथ जय शङ्कर शाश्वत ।

जय सर्वसुराध्यक्ष जय सर्वसुरार्चित ॥१॥


जय सर्वगुणातीत जय सर्ववरप्रद ।

जय नित्य निराधार जय विश्वम्भराव्यय ॥२॥


जय विश्वैकवन्द्येश जय नागेन्द्रभूषण ।

जय गौरीपते शम्भो जय चन्द्रार्धशेखर ॥३॥


जय कोट्यर्कसङ्काश जयानन्तगुणाश्रय ।

जय भद्र विरूपाक्ष जयाचिन्त्य निरञ्जन ॥४॥


जय नाथ कृपासिन्धो जय भक्तार्तिभञ्जन ।

जय दुस्तरसंसारसागरोत्तारण प्रभो ॥५॥


प्रसीद मे महादेव संसारार्तस्य खिद्यतः ।

सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर ॥६॥


महादारिद्र्यमग्नस्य महापापहतस्य च ।

महाशोकनिविष्टस्य महारोगातुरस्य च ॥७॥


ऋणभारपरीतस्य दह्यमानस्य कर्मभिः ।

ग्रहैः प्रपीड्यमानस्य प्रसीद मम शङ्कर ॥८॥


दरिद्रः प्रार्थयेद्देवं प्रदोषे गिरिजापतिम् ।

अर्थाढ्यो वाऽथ राजा वा प्रार्थयेद्देवमीश्वरम् ॥९॥


दीर्घमायुः सदारोग्यं कोशवृद्धिर्बलोन्नतिः ।

ममास्तु नित्यमानन्दः प्रसादात्तव शङ्कर ॥१०॥


शत्रवः संक्षयं यान्तु प्रसीदन्तु मम प्रजाः ।

नश्यन्तु दस्यवो राष्ट्रे जनाः सन्तु निरापदः ॥११॥


दुर्भिक्षमरिसन्तापाः शमं यान्तु महीतले ।

सर्वसस्यसमृद्धिश्च भूयात्सुखमया दिशः ॥१२॥


एवमाराधयेद्देवं पूजान्ते गिरिजापतिम् ।

ब्राह्मणान्भोजयेत् पश्चाद्दक्षिणाभिश्च पूजयेत् ॥१३॥


सर्वपापक्षयकरी सर्वरोगनिवारणी ।

शिवपूजा मयाऽऽख्याता सर्वाभीष्टफलप्रदा ॥१४॥


॥इति प्रदोषस्तोत्रं सम्पूर्णम् ॥


टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Rajasthani Lokgeet Lyrics in Hindi राजस्थानी लोकगीत लिरिक्स

बुन्देली गारी गीत लोकगीत लिरिक्स Bundeli Gali Geet Lokgeet Lyrics

Amir Khusrow Dohe Kavita अमीर खुसरो के दोहे गीत कविता पहेलियाँ