श्री विश्वनाथ अष्टकम् Shri Vishvanatha Ashtakam Lyrics

 गङ्गातरङ्गरमणीयजटाकलापं गौरीनिरन्तर विभूषितवामभागम् ।


नारायणप्रियमनङ्गमदापहारं वाराणसीपुरपतिं भज विश्वनाथम् ॥१॥


वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णु सुरसेवितपादपीठम् ।


वामेन विग्रहवरेण कळत्रवन्तं वाराणसीपुरपतिं भज विश्वनाथम् ॥२॥


भूताधिपं भुजगभूषणभूषिताङ्गं व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् ।


पाशाङ्कुशाभयवरप्रदशूलपाणिं वाराणसीपुरपतिं भज विश्वनाथम् ॥३॥


शीतांशुशोभित किरीटविराजमानं भालेक्षणानलविशोषितपञ्चबाणम् ।


नागाधिपारचित भासुरकर्णपूरं वाराणसीपुरपतिं भज विश्वनाथम् ॥४॥


पञ्चाननं दुरितमत्तमतङ्गजानां नागान्तकं दनुजपुङ्गवपन्नगानाम् ।


दावानलं मरणशोकजराटवीनां वाराणसीपुरपतिं भज विश्वनाथम् ॥५॥


तेजोमयं सगुणनिर्गुणमद्वितीयमानन्दकन्दमपराजितमप्रमेयम् ।


नागात्मकं सकलनिष्कलमात्मरूपं वाराणसीपुरपतिं भज विश्वनाथम् ॥६॥


आशां विहाय परिहृत्य परस्य निन्दां पापे मतिं च सुनिवार्य मनः समाधौ।


आदाय हृत्कमलमध्यगतं परेशं वाराणसीपुरपतिं भज विश्वनाथम् ॥७॥


रागादिदोषरहितं स्वजनानुरागवैराग्यशान्तिनिलयं गिरिजासहायम् ।


माधुर्यधैर्यसुभगं गरळाभिरामं वाराणसीपुरपतिं भज विश्वनाथम् ॥८॥


वाराणसीपुरपतेः स्तवनं शिवस्य व्याख्यातमष्टकमिदं पठते मनुष्यः ।


विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं संप्राप्य देहविलये लभते च मोक्षम् ॥९॥


विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ ।


शिवलोकमवाप्नोति शिवेन सह मोदते ॥१०॥


॥ इति श्रीव्यासकृतं विश्वनाथाष्टकं संपूर्णम् ॥

 

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Rajasthani Lokgeet Lyrics in Hindi राजस्थानी लोकगीत लिरिक्स

बुन्देली गारी गीत लोकगीत लिरिक्स Bundeli Gali Geet Lokgeet Lyrics

Amir Khusrow Dohe Kavita अमीर खुसरो के दोहे गीत कविता पहेलियाँ