श्री पशुपति अष्टकम् Shri Pashupati Ashtakam Lyrics

 ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतसं


रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।


पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं


विश्वाद्यं विश्वबीजं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ १ ॥


पशुपतिं द्युपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम् ।


प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् ॥ २ ॥


न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् ।


अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम् ॥ ३ ॥


मुरजडिण्डिमवाद्यविलक्षणं मधुरपञ्चमनादविशारदम् ।


प्रमथभूतगणैरपि सेवितं भजत रे मनुजा गिरिजापतिम् ॥ ४ ॥


शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नतं नृणाम् ।


अभयदं करुणावरुणालयं भजत रे मनुजा गिरिजापतिम् ॥ ५ ॥


नरशिरोरचितं मणिकुण्डलं भुजगहारमुदं वृषभध्वजम् ।


चितिरजोधवलीकृतविग्रहं भजत रे मनुजा गिरिजापतिम् ॥ ६ ॥


मखविनाशकरं शशिशेखरं सततमध्वरभाजिफलप्रदम् ।


प्रलयदग्धसुरासुरमानवं भजत रे मनुजा गिरिजापतिम् ॥ ७ ॥


मदमपास्य चिरं हृदिसंस्थितं मरणजन्मजराभयपीडनम् ।


जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा गिरिजापतिम् ॥ ८ ॥


हरिविरिञ्चिसुराधिपपूजितं यमजनेशधनेशनमस्कृतम् ।


त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिम् ॥ ९ ॥


पशुपतेरिदमष्टकमद्भुतं विरचितं पृथिवीपतिसूरिणा ।


पठति संशृणुते मनुजः सदा शिवपुरीं वसते लभते मुदम् ॥ १० ॥


टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Rajasthani Lokgeet Lyrics in Hindi राजस्थानी लोकगीत लिरिक्स

बुन्देली गारी गीत लोकगीत लिरिक्स Bundeli Gali Geet Lokgeet Lyrics

Amir Khusrow Dohe Kavita अमीर खुसरो के दोहे गीत कविता पहेलियाँ