श्री शङ्कराष्टकम् Shri Shankarashtakam Lyrics

 ॥ श्रीगणेशाय नमः ॥


शीर्षजटागणभारं गरलाहारं समस्तसंहारम् ।


कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥ १ ॥


चन्द्रकलोज्ज्वलभालं कण्ठव्यालं जगत्त्रयीपालम् ।


कृतनरमस्तकमालं कालं कालस्य कोमलं वन्दे ॥ २ ॥


कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम् ।


संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥ ३ ॥


कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम् ।


विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥ ४ ॥


त्रिपुरादिकदनुजान्तं गिरिजाकान्तं सदैव संशान्तम् ।


लीलाविजितकृतान्तं भान्तं स्वान्तेपु देहिनां वन्दे ॥ ५ ॥


सुरसरिदाप्लुतकेशं त्रिदशकुलेशं हृदालयावेशम् ।


विगताशेषक्लेशं देशं सर्वेष्टसम्पदां वन्दे ॥ ६ ॥


करतलकलितपिनाकं विगतजराकं सुकर्मणां पाकम् ।


परपदवीतवराकं नाकङ्गमपूगवन्दितं वन्दे ॥ ७ ॥


भूतिविभूषितकायं दुस्तरमायं विवर्जितापायम् ।


प्रमथसमूहसहायं सायं प्रातर्निरन्तरं वन्दे ॥ ८ ॥


यस्तुपदाष्टकमेतद्ब्रह्मानन्देन निर्मितं नित्यम् ।


पठति समाहितचेताः प्राप्नोत्यन्ते स शैवमेव पदम् ॥ ९ ॥


॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीशङ्कराष्टकं सम्पूर्णम् ॥


टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Rajasthani Lokgeet Lyrics in Hindi राजस्थानी लोकगीत लिरिक्स

बुन्देली गारी गीत लोकगीत लिरिक्स Bundeli Gali Geet Lokgeet Lyrics

Amir Khusrow Dohe Kavita अमीर खुसरो के दोहे गीत कविता पहेलियाँ