श्री गणपती स्तोत्र / Shri Ganpati Stotra

  

—|| संकटनाशन गणपती स्तोत्र ||—


ॐ श्री गणेशाय नमः


प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्

भक्तावासं स्मरैनित्यंमायु:कामार्थसिद्धये___१


प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्

तृतीयं कृष्णपिङ्गगाक्षं गजवक्त्रं चतुर्थकम्___२


लम्बोदरं पञ्चमं च षष्ठं विकटमेव च

सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्___३


नवमं भालचन्द्रं च दशमं तु विनायकम्

एकादशं गणपतिं द्वादशं तु गजाननम्___४


द्वादशैतानि नामानि त्रिसंध्य य: पठेन्नरः

न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो___५


विद्यार्थी लभते विद्यां धनार्थी लभते धनम्

पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्___६


जपेत् गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत्

संवत्सरेण सिद्धिं च लभते नात्र संशयः___७


अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्

तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः___८


|| इति श्रीनारदपुराणे सङ्कटनाशनं नाम श्रीगणपतिस्तोत्रं संपूर्णम् ||


गायत्री मंत्र / Gayatri Mantra


टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Rajasthani Lokgeet Lyrics in Hindi राजस्थानी लोकगीत लिरिक्स

बुन्देली गारी गीत लोकगीत लिरिक्स Bundeli Gali Geet Lokgeet Lyrics

Amir Khusrow Dohe Kavita अमीर खुसरो के दोहे गीत कविता पहेलियाँ