—|| संकटनाशन गणपती स्तोत्र ||—
ॐ श्री गणेशाय नमः
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्
भक्तावासं स्मरैनित्यंमायु:कामार्थसिद्धये___१
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्
तृतीयं कृष्णपिङ्गगाक्षं गजवक्त्रं चतुर्थकम्___२
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम्___३
नवमं भालचन्द्रं च दशमं तु विनायकम्
एकादशं गणपतिं द्वादशं तु गजाननम्___४
द्वादशैतानि नामानि त्रिसंध्य य: पठेन्नरः
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो___५
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम्___६
जपेत् गणपतिस्तोत्रं षड्भिर्मासै: फलं लभेत्
संवत्सरेण सिद्धिं च लभते नात्र संशयः___७
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः___८
|| इति श्रीनारदपुराणे सङ्कटनाशनं नाम श्रीगणपतिस्तोत्रं संपूर्णम् ||
गायत्री मंत्र / Gayatri Mantra
No comments:
Post a Comment