बाह्य शांती सूक्त Shanti Sukta

 बाह्य शांती सूक्त

नमो वः पितरो, यच्छिवं तस्मै नमो, पितरो यत् स्योनं तस्मै ।

नमो यः पितरः, स्वधा वः पितरः ॥ १ ॥

नमोऽस्तु ते निर्ऋते, तिग्म-तेजोऽमस्ययान विचृता बन्ध-पाशान् ।

यमो मह्यं पुनरित् त्वां ददाति । तस्मै यमाय नमोऽस्तु मृत्यवे ॥ २ ॥

नमोऽस्वसिताय नमस्तिरश्चिराजये ।

स्वजाय बभ्रवे नमो नमो देव-जनेभ्यः ॥ ३ ॥

नमः शिताय, तक्मने, नमो रुराय शोचिषे कृणोमि ।

यो अन्येद्युरुभयद्युरभ्येति, तृतिय-काय नमोअस्तु तक्मने ॥ ४ ॥

नमस्ते अधिवाकाय, परावाकाय ते नमः ।

सु-मत्यै मृत्यो ते नमो, दुर्मत्यै त इदं नमः ॥ ५ ॥

नमस्ते यातुधानेभ्यो, नमस्ते भेषजेभ्यः ।

नमस्ते मृत्यो मूलेभ्यो, ब्राह्मणेभ्य इदं नमः ॥ ६ ॥

नमो देव-वधेभ्यो, नमो राजवधेभ्यः ।

अथो ये विश्यानां, वधास्तेभ्यो मृत्यो नमोऽस्तु ते ॥ ७ ॥

नमस्तेअस्तु नारदा नुष्ठ विदुषे वशा ।

कतमासां भीम-तमा यामदत्वा पराभवेत् ॥ ८ ॥

नमस्तेअस्तु विद्युते, नमस्ते स्तनयित्नवे । 

नमस्तेअस्त्वश्मने, येना दूडाशे अस्यसि ॥ ९ ॥

नमस्तेअस्त्वायते नमोअस्तु पराय ते ।           

नमस्ते प्राण तिष्ठत, आसीनायोत ते नमः ॥ १० ॥

नमस्तेऽस्त्वायते नमोअस्तु पराय ते ।

नमस्ते रुद्र तिष्ठत, आसीनायोत ते नमः ॥ ११ ॥

नमस्ते जायमानायै, जाताया उत ते नमः ।

वालेभ्यः शफेभ्यो, रुपायाध्न्येध्न्ये नमः ॥ १२ ॥

नमस्ते प्राण-क्रन्दाय, नमस्ते स्तनयित्नवे ।

नमस्ते प्राण-विद्युते, नमस्ते प्राण-वर्षते ॥ १३ ॥

नमस्ते प्राण प्राणते, नमोअस्त्वपानते ।

पराचीनाय ते नमः, प्रतीचीनाय ते नमः, सर्वस्मै त इदं नमः ॥ १४ ॥

नमस्ते राजन् वरुणास्तु मन्यवे, विश्व ह्युग्र निचिकेषि द्रुग्धम् ।

सहस्त्रमन्यान् प्र सुवामि, साकं शतं जीवति शरदस्तवायम् ॥ १५ ॥

नमस्ते रुद्रास्यते, नमः प्रतिहितायै ।

नमो विसृज्य-मानायै, नमो निपतितायै ॥ १६ ॥  

नमस्ते लाङ्गलेभ्यो, नम ईषायुगेभ्यह ।

वीरुत् क्षेत्रिय-नाशन्यप क्षेत्रियमुच्छतु ॥ १७ ॥

नमो गन्धर्वस्य, नमसे नमो भामाय चक्षुषे च कृण्मः ।

विश्वावसो ब्रह्मणा ते नमोऽभि जाया अप्सरसः परेहि ॥ १८ ॥

नमो यमाय, नमोअस्तु मृत्यवे, नमः पितृभ्य उतये नयन्ति ।

उत्पारणस्य यो वेद, तमग्निं पुरो दधेऽस्मा अरिष्टतातये ॥ १९ ॥

नमो रुद्राय, नमोऽस्तु तक्मने, नमो राज्ञे वरुणायं त्विषीमते ।

नमो दिवे, नमः पृथिव्यै, नमः औषधीभ्यः ॥ २० ॥

नमो रुराय च्यवनाय, नोदनाय, धृष्णवे ।

नमः शीताय, पुर्व काम कृत्वने ॥ २१ ॥

नमो वः पितर ऊर्जे, नमो वः पितरो रसाय ॥ २२ ॥

नमो वः पितरो भामाय, नमो वः पितरो मन्यवे ॥ २३ ॥  

नमो वः पितरो यद्-घोरं, तस्मै नमो वः पितरो, 

यत] क्रूरं तस्मै ॥ २४ ॥

हे सूक्त रोज सकाळी आंघोळ झाल्यानंतर देवपूजा करण्याआधी म्हणतात. दक्षिणेकडे तोंड करुन बसून म्हणावे. तूप व तीळाचे हवन गोवरीच्या तुकड्यावर करतात. कामांत यश. सहकार्य, पितरांचे आशिर्वाद व कुलदेवताही प्रस्न्न होतात.

Bahya Shanti Sukta 

बाह्य शांती सूक्त

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Rajasthani Lokgeet Lyrics in Hindi राजस्थानी लोकगीत लिरिक्स

बुन्देली गारी गीत लोकगीत लिरिक्स Bundeli Gali Geet Lokgeet Lyrics

Amir Khusrow Dohe Kavita अमीर खुसरो के दोहे गीत कविता पहेलियाँ