मन्त्रपुष्पम् - Mantrapushpam

ॐ यो॑ऽपां पुष्पं॒ वेद॑। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।


च॒न्द्रमा॒ वा अ॒पां पुष्पम्᳚। पुष्प॑वान् प्र॒जावा᳚न् पशु॒मान् भ॑वति ।


य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ १ ॥


अ॒ग्निर्वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।


यो᳚ऽग्नेरा॒यतनं॒ वेद॑ । आ॒यत॑नवान् भवति ।


आपो॒ वा अ॒ग्नेरा॒यत॑नम् । आ॒यत॑नवान् भवति ।


य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ २ ॥


वा॒युर्वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।


यो वा॒योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।


आपो॒ वै वा॒योरा॒यत॑नम्। आ॒यत॑नवान् भवति ।


य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ३ ॥


अ॒सौ वै तप॑न्न॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।


यो॑ऽमुष्य॒ तप॑त आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।


आपो॒ वा अ॒मुष्य॒ तप॑त आ॒यत॑नम्। आ॒यत॑नवान् भवति ।


य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ४ ॥


च॒न्द्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति ।


यश्च॒न्द्रम॑स आ॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।


आपो॒ वै च॒न्द्रम॑स आ॒यत॑नम्। आ॒यत॑नवान् भवति ।


य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ५ ॥


नक्ष॑त्राणि॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।


यो नक्ष॑त्राणामा॒यत॑नं॒ वेद॑। आ॒यत॑नवान् भवति ।


आपो॒ वै नक्ष॑त्राणामा॒यत॑नम्। आ॒यत॑नवान् भवति ।


य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद ॑। आ॒यत॑नवान् भवति ॥ ६ ॥


प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।


यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।


आपो॒ वै प॒र्जन्य॑स्या॒ऽऽयत॑नम्। आ॒यत॑नवान् भवति ।


य ए॒वं वेद॑ । यो॑ऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ॥ ७ ॥


सं॒व॒त्स॒रो वा अ॒पामा॒यत॑नम्। आ॒यत॑नवान् भवति ।


यस्सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।


आपो॒ वै सं॑वत्स॒रस्या॒यत॑नम् । आ॒यत॑नवान् भवति ।


य ए॒वं वेद॑। यो᳚ऽप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ॥ ८ ॥

सूक्त संग्रह | मुख्य पृष्ठ Sukt Sangrah in Hindi

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Rajasthani Lokgeet Lyrics in Hindi राजस्थानी लोकगीत लिरिक्स

बुन्देली गारी गीत लोकगीत लिरिक्स Bundeli Gali Geet Lokgeet Lyrics

Amir Khusrow Dohe Kavita अमीर खुसरो के दोहे गीत कविता पहेलियाँ