श्री विष्णु स्तवनम् / Shri Vishnu Stavanam

मार्कण्डेय उवाच ।

नरं नृसिंहं नरनाथमच्युतं

प्रलम्बबाहुं कमलायतेक्षणम् ।

क्षितीश्वरैरर्चितपादपङ्कजं

नमामि विष्णुं पुरुषं पुरातनम् ॥ १ ॥


जगत्पतिं क्षीरसमुद्रमन्दिरं

तं शार्ङ्गपाणिं मुनिवृन्दवन्दितम् ।

श्रियः पतिं श्रीधरमीशमीश्वरं

नमामि गोविन्दमनन्तवर्चसम् ॥ २ ॥


अजं वरेण्यं जनदुःखनाशनं

गुरुं पुराणं पुरुषोत्तमं प्रभुम् ।

सहस्रसूर्यद्युतिमन्तमच्युतं

नमामि भक्त्या हरिमाद्यमाधवम् ॥ ३ ॥


पुरस्कृतं पुण्यवतां परां गतिं

क्षितीश्वरं लोकपतिं प्रजापतिम् ।

परं पराणामपि कारणं हरिं

नमामि लोकत्रयकर्मसाक्षिणम् ॥ ४ ॥


भोगे त्वनन्तस्य पयोदधौ सुरः

पुरा हि शेते भगवाननादिकृत् ।

क्षीरोदवीचीकणिकाम्बुनोक्षितं

तं श्रीनिवासं प्रणतोऽस्मि केशवम् ॥ ५ ॥


यो नारसिंहं वपुरास्थितो महान्

सुरो मुरारिर्मधुकैटभान्तकृत् ।

समस्तलोकार्तिहरं हिरण्यकं

नमामि विष्णुं सततं नमामि तम् ॥ ६ ॥


अनन्तमव्यक्तमतीन्द्रियं विभुं

स्वे स्वे हि रूपे स्वयमेव संस्थितम् ।

योगेश्वरैरेव सदा नमस्कृतं

नमामि भक्त्या सततं जनार्दनम् ॥ ७ ॥


आनन्दमेकं विरजं विदात्मकं

वृन्दालयं योगिभिरेव पूजितम् ।

अणोरणीयांसमवृद्धिमक्षयं

नमामि भक्तप्रियमीश्वरं हरिम् ॥ ८ ॥


इति श्रीनरसिंहपुराणे दशमोऽध्याये मार्कण्डेय प्रोक्त श्रीविष्णु स्तवनम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Rajasthani Lokgeet Lyrics in Hindi राजस्थानी लोकगीत लिरिक्स

बुन्देली गारी गीत लोकगीत लिरिक्स Bundeli Gali Geet Lokgeet Lyrics

Amir Khusrow Dohe Kavita अमीर खुसरो के दोहे गीत कविता पहेलियाँ