श्री हरि शरणाष्टकम् Shri Hari Sharanashtakam lyrics
श्री हरि शरणाष्टकम्
Shri Hari Sharanashtakam lyrics
ध्येयं वदन्ति शिवमेव हि केचिदन्येशक्तिं गणेशमपरे तु दिवाकरं वै।
रूपैस्तु तैरपि विभासि यतस्त्वमेव
तस्मात्त्वमेव शरणं मम दीनबन्धो॥1॥
नो सोदरो न जनको जननी न जाया
नैवात्मजो न च कुलं विपुलं बलं वा।
संदृष्यते न किल कोऽपि सहायको मे
तस्मात्त्वमेव शरणं मम दीनबन्धो॥2॥
नोपासिता मदमपास्य मया महान्तस्तीर्थानि
चास्तिकधिया न हि सेवितानि।
देवार्चनं च विधिवन्न कृतं कदापि
तस्मात्त्वमेव शरणं मम दीनबन्धो॥3॥
दुर्वासना मम सदा परिकर्षयन्ति
चित्तं शरीरमपि रोगगणा दहन्ति।
सञ्जीवनं च परहस्तगतं सदैव
तस्मात्त्वमेव शरणं मम दीनबन्धो॥4॥
पूर्वं कृतानि दुरितानि मया तु यानि
स्मृत्वाखिलानि ह्रदयं परिकम्पते मे।
ख्याता च ते पतितपावनता तु यस्मात्
तस्मात्त्वमेव शरणं मम दीनबन्धो॥5॥
दुःखं जराजननजं विविधाश्च रोगा:
काकश्वसूकरजनिर्निरय च पात:।
त्वद्विस्मॄतेः फलमिदं विततं हि लोके
तस्मात्त्वमेव शरणं मम दीनबन्धो॥6॥
नीचोऽपि पापवलितोऽपि विनिन्दितोऽपि
ब्रूयात्तवाहमिति यस्तु किलैकवारम्।
तं यच्छसीश निजलोकमिति व्रतं ते
तस्मात्त्वमेव शरणं मम दीनबन्धो॥7॥
वेदेषु धर्मवचनेषु तथागमेषु
रामायणेऽपि च पुराणकदम्बके वा।
सर्वत्र सर्वविधिना गदितस्त्वमेव
तस्मात्त्वमेव शरणं मम दीनबन्धो॥8॥
॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं श्रीहरिशरणाष्टकं सम्पूर्णम्
टिप्पणियाँ
एक टिप्पणी भेजें