श्री गौरीशाष्टकम Shri Gaurishashtakam lyrics

श्री गौरीशाष्टकम 

Shri Gaurishashtakam lyrics 


भज गौरीशं भज गौरीशं
गौरीशं भज मन्दमते।

जलभवदुस्तरजलधिसुतरणं
ध्येयं चित्ते शिवहरचरणम्।

अन्योपायं न हि न हि सत्यं
गेयं शङ्कर शङ्कर नित्यम्।

भज गौरीशं भज गौरीशं
गौरीशं भज मन्दमते॥1॥

दारापत्यं क्षेत्रं वित्तं
देहं गेहं सर्वमनित्यम्।

इति परिभावय सर्वमसारं
गर्भविकृत्या स्वप्नविचारम्।

भज गौरीशं भज गौरीशं
गौरीशं भज मन्दमते॥2॥

मलवैचित्ये पुनरावृत्ति:
पुनरपि जननीजठरोत्पत्ति:।

पुनरप्याशाकुलितं जठरं किं
नहि मुञ्चसि कथयेश्चित्तम्।

भज गौरीशं भज गौरीशं
गौरीशं भज मन्दमते॥3॥

मायाकल्पितमैन्द्रं जालं न
हि तत्सत्यं दृष्टिविकारम्।

ज्ञाते तत्त्वे सर्वमसारं मा
कुरु मा कुरु विषयविचारम्।

भज गौरीशं भज गौरीशं
गौरीशं भज मन्दमते॥4॥

रज्जौ सर्पभ्रमणा-
रोपस्तद्वद्ब्रह्मणि जगदारोप:।

मिथ्यामायामोहविकारं
मनसि विचारय बारम्बारम्।

भज गौरीशं भज गौरीशं
गौरीशं भज मन्दमते॥5॥

अध्वरकोटीगङ्गागमनं कुरुते
योगं चेन्द्रियदमनम्।

ज्ञानविहीन: सर्वमतेन न
भवति मुक्तो जन्मशतेन।

भज गौरीशं भज गौरीशं
गौरीशं भज मन्दमते॥6॥

सोऽहं हंसो ब्रह्मैवाहं
शुद्धानन्दस्तत्त्वपरोऽहम्।

अद्वैतोऽहं सङ्गविहीने
चेन्द्रिय आत्मनि निखिले लीने।

भज गौरीशं भज गौरीशं
गौरीशं भज मन्दमते॥7॥

शङ्करकिंङ्कर मा कुरु चिन्तां
चिंतामणिना विरचितमेतत्।

य: सद्भक्त्या पठति हि नित्यं
ब्रह्मणि लीनो भवति हि सत्यम्।

भज गौरीशं भज गौरीशं
गौरीशं भज मन्दमते॥8॥

॥ इति श्रीचिन्तामणिविरचितं गौरीशाष्टकं सम्पूर्णम् ॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

Rajasthani Lokgeet Lyrics in Hindi राजस्थानी लोकगीत लिरिक्स

बुन्देली गारी गीत लोकगीत लिरिक्स Bundeli Gali Geet Lokgeet Lyrics

Amir Khusrow Dohe Kavita अमीर खुसरो के दोहे गीत कविता पहेलियाँ